Skip navigation.
कृण्वन्तो विश्वमार्यम्

ईशोपनिषद्

ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्याञ्जगत् |
तेन त्यक्तेन भुञ्जीथा मा ग्रृधः कस्य स्विद्धनम् ||1||

कुर्वन्नेवेह कर्माणि, जिजीविषेच्छतँ समाः |
एवन्त्वयि नान्येतोSस्ति न कर्म लिप्यते नरे ||2||

असुर्य्या नाम ते लोका अन्धेन तमसाSSवृताः |
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ||3||

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् |
तद्वावतोSन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ||4||

तदेजति तन्नैजति तद् दूरे तद्वन्तिके |
तदन्तरस्य सर्वस्य त सर्वस्यास्य बाह्यतः ||5||

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति |
सर्वभूतेषु चात्मनं ततो न विजुगुप्सते ||6||

यस्मिन्त्सर्वाणि भूतान्यात्मैवाभूद्विजानतः |
तत्र को मोहः कः शोक एकत्वमनुपश्यत: ||7||

स पर्य्यगाच्छुक्रमकायमव्रणमस्नाविरँ शुद्धमपापविद्वम् |
कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोSर्थान् व्यदधा
च्छाश्वतीभ्यः समाभ्यः ||8||

अन्धन्त‌मः प्रविशन्ति ये Sविद्यामुपासते |
ततो भूयं इव ते तमो य उ विद्यायाँ रताः ||9||

अन्यदेवाहुर्विद्याया अन्यदाहुरविद्याया: |
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ||10||

विद्याञ्चाविद्यां च यस्तद् वेदोभयँ सह |
अविद्यया मृत्युं तीर्त्वा विद्ययाSमृतमश्नुते ||11||

अन्धन्त‌मः प्रविशन्ति ये Sसम्भूतिमुपासते |
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ||12||

अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् |
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ||13||

सम्भूतिं च विनाशं च यस्तद्वेदोभय् सह |
विनाशेन मृत्युतीर्त्वा सम्भूत्याSमृतमश्नुते ||14||

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् |
त‌त्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ||15||

पूषन्नेकर्षे यम सूर्यप्राजापत्य व्यूह रश्मीन् समूह |
तेजो यत्ते रूपं कल्याणतमं तत्ते नश्यामि योSसावसौ
पुरुषः सोSहमस्मि ||16||

वायुरनिलममृतमथेदं भस्मात्ँ शरीरम् |
ओउम् क्रतो स्मर क्लिबे स्मर कृत्ँ स्मर ||17||

अग्ने नय सुपथा राये अस्मान् विश्वानि
देव वयुनानि विद्वान् | युयोध्यस्मज्जुहुराणमेनो
भुयिष्ठान्ते नम उक्तिं विधेम ||18||